वांछित मन्त्र चुनें
आर्चिक को चुनें

सा꣣कमु꣡क्षो꣢ मर्जयन्त꣣ स्व꣡सा꣢रो꣣ द꣢श꣣ धी꣡र꣢स्य धी꣣त꣢यो꣣ ध꣡नु꣢त्रीः । ह꣢रिः꣣ प꣡र्य꣢द्रव꣣ज्जाः꣡ सूर्य꣢꣯स्य꣣ द्रो꣡णं꣢ ननक्षे꣣ अ꣢त्यो꣣ न꣢ वा꣣जी꣢ ॥५३८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥५३८॥

मन्त्र उच्चारण
पद पाठ

सा꣣कमु꣡क्षः꣢ । सा꣣कम् । उ꣡क्षः꣢꣯ । म꣣र्जयन्त । स्व꣡सा꣢꣯रः । द꣡श꣢꣯ । धी꣡र꣢꣯स्य । धी꣣त꣡यः꣢ । ध꣡नु꣢꣯त्रीः । ह꣡रिः꣢꣯ । प꣡रि꣢꣯ । अ꣣द्रवत् । जाः꣢ । सू꣡र्य꣢꣯स्य । सु । ऊ꣣र्यस्य । द्रो꣡णं꣢꣯ । न꣣नक्षे । अ꣡त्यः꣢꣯ । न । वा꣣जी꣢ ॥५३८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 538 | (कौथोम) 6 » 1 » 5 » 6 | (रानायाणीय) 5 » 7 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह वर्णित है कि कब जीवात्मा परमात्मा को प्राप्त करता है।

पदार्थान्वयभाषाः -

प्रथम—सोम ओषधि के पक्ष में। (धीरस्य) बुद्धिमान् यजमान के (साकमुक्षः) साथ मिलकर सोमरस को निचोड़नेवाली, (धनुत्रीः) प्रेरक, (दश) दस (धीतयः) अंगुलियाँ जब सोमरस को (मर्जयन्ति) शुद्ध करती हैं, तब (सूर्यस्य) सूर्य का (जाः) पुत्र (हरिः) हरे रंग का सोमरस (पर्यद्रवत्) चारों ओर फैल जाता है। (न) जैसे (वाजी) वेगवान् (अत्यः) घोड़ा (द्रोणम्) लकड़ी से बने रथ को (ननक्षे) व्याप्त करता है अर्थात् रथ में नियुक्त होता है, वैसे ही सोमरस (द्रोणम्) द्रोणकलश में (ननक्षे) व्याप्त होता है ॥ द्वितीय—परमात्मा के पक्ष में। (धीरस्य) ध्यान में स्थित योगी की (साकमुक्षः) साथ मिलकर ज्ञानों और कर्मों से सींचनेवाली, (स्वसारः) बहिनों के समान परस्पर सहायता करनेवाली, (धनुत्रीः) प्रेरक (दश) दस (धीतयः) यम-नियम-भावनाएँ, जब (मर्जयन्त) आत्मा को शुद्ध करती हैं, तब (सूर्यस्य) परमात्मा का (जाः) पुत्र (हरिः) उन्नति के मार्ग पर जानेवाला आत्मा (पर्यद्रवत्) क्रियाशील हो जाता है, और (न) जैसे (वाजी) वेगवान् (अत्यः) घोड़ा (द्रोणम्) लकड़ी से बने रथ को (ननक्षे) प्राप्त करता है, अर्थात् उसमें जुड़ता है, वैसे ही वह आत्मा (द्रोणम्) क्रियाशील परमात्मा-रूप द्रोणकलश को (ननक्षे) प्राप्त कर लेता है ॥६॥ इस मन्त्र में श्लेषालङ्कार है। ‘द्रोणं ननक्षे अत्यो न वाजी’ में श्लिष्टोपमा है। सकार-धकार-नकार तथा रेफ की अनेक बार आवृत्ति में वृत्त्यनुप्रास है ॥६॥

भावार्थभाषाः -

अंगुलियों से परिशुद्ध सोमरस जैसे द्रोणकलश को प्राप्त करता है, वैसे ही यम-नियम की भावनाओं से परिशुद्ध हुआ जीवात्मा परमात्मा को प्राप्त करता है ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ कदा जीवात्मा परमात्मानं प्राप्नोतीत्याह।

पदार्थान्वयभाषाः -

प्रथमः—सोमौषधिपरः। (धीरस्य) धीमतो यागकर्तुः (साकमुक्षः) साकं सह मिलित्वा उक्षन्ति सिञ्चन्ति निश्च्योतयन्ति सोमरसं यास्ताः (स्वसारः) भगिन्यः, भगिनीवत् सह मिलिताः, (धनुत्रीः२) धनुत्र्यः प्रेरयित्र्यः। धिन्वन्ति प्रीणयन्ति यास्ताः। धिवि प्रीणने, जसि पूर्वसवर्णदीर्घः। (दश) दशसंख्यकाः (धीतयः) अङ्गुलयः। स्वसारः, धीतयः इत्युभयमपि अङ्गुलिनामसु पठितम्। निघं० २।५। यदा सोमम् (मर्जयन्त) शोधयन्ति। मृजू शौचालङ्कारयो चुरादिः। लडर्थे लङ्। अमार्जयन्त इति प्राप्ते अडागमाभावश्छान्दसः, वृद्धिस्थाने गुणश्च। तदा (सूर्यस्य) आदित्यस्य (जाः३) अपत्यम्। जाः इत्यपत्यनाम। निघं० २।२। (हरिः) हतिवर्णः सोमरसः। हरिः सोमो हरितवर्णः इति निरुक्तम् ४।१९। (पर्यद्रवत्) परितो विस्तीर्यते। किञ्च (वाजी) वेगवान् (अत्यः न) अश्वो यथा। अत्यः, वाजी इत्युभयमपि अश्वनामसु पठितम्। निघं० १।१४। अत्र वाजी इति अत्यः इत्यस्य विशेषणत्वेन प्रयुक्तः सन् योगार्थं प्रयच्छति। यः अतति सततं व्याप्नोति अध्वानं सोऽत्यः। अत सातत्यगमने। (द्रोणम्) द्रुमयं रथम्। द्रोणं द्रुममयं भवति इति निरुक्तम् ५।२६। (ननक्षे) व्याप्नोति, तत्र युज्यते, तथैव सोमरसः (द्रोणम्) द्रोणकलशम् (ननक्षे) व्याप्नोति। नक्षतिर्व्याप्तिकर्मा। निघं० २।१८ ॥ अथ द्वितीयः—परमात्मपरः। (धीरस्य) ध्यानस्थस्य योगिनः (साकमुक्षः) साकं सह मिलित्वा उक्षन्ति सिञ्चन्ति ज्ञानैः कर्मभिश्च यास्ताः, (स्वसारः) भगिनीवत् परस्परं सहकारिण्यः, (धनुत्रीः) धनुत्र्यः प्रेरयित्र्यः (दश) दशसंख्यकाः (धीतयः) यम-नियम-भावनाः, यदा (मर्जयन्त) जीवात्मानं शोधयन्ति, तदा (सूर्यस्य) परमात्मनः (जाः) पुत्रः (हरिः) उन्नतिपथे यः ह्रियते स जीवात्मा (पर्यद्रवत्) परिद्रवति, समन्ततः क्रियाशीलो भवति। किञ्च (वाजी) वेगवान् (अत्यः न) अश्वो यथा (द्रोणम्) द्रुमयं रथम् (ननक्षे) प्राप्नोति, तत्र युज्यते इत्यर्थः, तथैव स जीवात्मा (द्रोणम्) क्रियाशीलं परमात्मानम्। गत्यर्थाद् द्रवतेः ‘कृवृजृसि’ उ० ३।१० इति नः प्रत्ययः। (ननक्षे) प्राप्नोति ॥६॥ अत्र श्लेषालङ्कारः। ‘द्रोणं ननक्षे अत्यो न वाजी’ इत्यत्र श्लिष्टोपमा। सकार-धकार-नकार-रेफाणामसकृदावर्तनाद् वृत्त्यनुप्रासः ॥६॥

भावार्थभाषाः -

दशाङ्गुलिभिः परिशोधितः सोमरसो यथा द्रोणकलशं व्याप्नोति तथैव यमनियमभावनाभिः परिशोधितो जीवात्मा परमात्मानं प्राप्नोति ॥६॥

टिप्पणी: १. ऋ० ९।९३।१, साम० १४१८। २. धनुत्रीः धनुः त्रायन्त्यः—इति वि०। धिनोतेर्धनुत्र्यः प्रीणयित्र्यः धन्वतेर्वा गतिकर्मणः, प्राप्नुवन्त्यः प्राप्तव्यानि—इति भ०। ३. जाः जनयिता सूर्यस्य। जन जनने इत्यस्माद् धातोर्विटि प्रत्यये ‘विड्वनोरनुनासिकस्यात्’ इति आकारः। जनिताग्नेर्जनिता सूर्यस्य (ऋ० ६।९६।५) इति च भवति—इति भ०।